(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.117. अध्यायः 117
Mahabharata - Udyoga Parva - Chapter Topics
गालवेन दिवोदासंप्रति स्वागमनकारणकथनम् ॥ 1 ॥
तेन स्वस्याप्यश्वशतद्वयवत्त्वेन एकपुत्रोत्पादनकथनम् ॥ 2 ॥
तथा शुल्कदानेन तस्यां प्रतर्दनाख्यसुतमुत्पाद्य कालान्तरागताय गालवाय माधवीप्रत्यर्पणम् ॥ 3 ॥
Mahabharata - Udyoga Parva - Chapter Text

गालव उवाच। 5-117-0x(3731)(35777)
महावीर्यो महीपालः काशीनामीश्वरः प्रभुः।
दिवोदास इति ख्यातो भैमसेनिर्नराधिपः ॥ 5-117-1(35778)
तत्र गच्छावहे भद्रे शनैरागच्छ मा शुचः ।
धार्मिकः संयमे युक्तः सत्ये चैव जनेश्वरः ॥ 5-117-2(35779)
नारद उवाच। 5-117-3x(3732)
तमुपागम्य स मुनिर्न्यायतस्तेन सत्कृतः।
गालवः प्रसवस्यार्थे तं नृपं प्रत्यचोदयत् ॥ 5-117-3(35780)
दिवोदाम उवाच। 5-117-4x(3733)
श्रुतमेतन्मया पूर्वं किमुक्त्वा विस्तरं द्विज।
काङ्क्षितो हि मयैषोऽर्थः श्रुत्वैव द्विजसत्तम ॥ 5-117-4(35781)
एतच्च मे बहुमतं यदुत्सृज्य नराधिपान्।
मामेवमुपयातोऽसि भावि चैतदसंशयम् ॥ 5-117-5(35782)
स एव विभवोऽसमाकमश्वानामपि गालव।
अहमप्येकमेवास्यां जनयिष्यामि पार्थिवम् ॥ 5-117-6(35783)
नारद उवाच। 5-117-7x(3734)
तथेत्युक्त्वा द्विजश्रेष्ठः प्रादात्कन्यां महीपतेः।
विधिपूर्वां च तां राजा कन्यां प्रतिगृहीतवान् ॥ 5-117-7(35784)
रेमे स तस्यां राजर्षिः प्रभावत्यां यथा रविः।
स्वाहायां च यथा वह्निर्यथा शाच्यां च वासवः ॥ 5-117-8(35785)
यथा चन्द्रश्च रोहिण्यां यथा धूमोर्णया यमः।
वरुणश्च यथा गौर्यां यथा चर्ध्यां धनेश्वरः ॥ 5-117-9(35786)
यथा नारायणो लक्ष्म्यां जाह्नव्यां च यथोदधिः ।
यथा रुद्रश्च रुद्राण्यां यथा वेद्यां पितामहः ॥ 5-117-10(35787)
अदृश्यन्त्यां च वासिष्ठो वसिष्ठश्चाक्षमालया।
च्यवनश्च सुकन्यायां पुलस्त्यः सन्ध्यया यथा ॥ 5-117-11(35788)
अगस्त्यश्चापि वैदर्भ्यां सावित्र्यां सत्यवान्यथा।
यथा भृगुः पुलोमायामदित्यां कश्यपो यथा ॥ 5-117-12(35789)
रेणुकायां यथार्चीको हैमवत्यां च कौशिकः।
बृहस्पतिश्च तारायां शुक्रश्च शतपर्वणा ॥ 5-117-13(35790)
यथा भूम्यां भूमिपतिरुर्वश्यां च पुरूरवाः।
ऋचीकः सत्यवत्यां च सरस्वस्यां यथा मनुः ॥ 5-117-14(35791)
शकुन्तलायां दुष्यन्तो धृत्यां धर्मश्च शाश्वतः।
दमयन्त्यां नलश्चैव सत्यवत्यां च नारदः ॥ 5-117-15(35792)
जरत्कारुर्जरत्कार्वां पुलस्त्यश्च प्रतीच्यया।
मेनकायां यथोर्णायुस्तुम्बुरुश्चैव रम्भया ॥ 5-117-16(35793)
वासुकिः शतशीर्षायां कुमार्यां च धनञ्जयः।
वैदेह्यां च यथा रामो रुक्मिण्यां च जनार्दनः ॥ 5-117-17(35794)
तथा तु रममाणस्य दिवोदासस्य भूपतेः ।
माधवी जनयामास पुत्रमेकं प्रतर्दनम् ॥ 5-117-18(35795)
अथाजगाम भगवान्दिवोदासं स गालवः ।
समये समनुप्राप्ते वचनं चेदमब्रवीत् ॥ 5-117-19(35796)
निर्यातयतु मे कन्यां भवांस्तिष्ठन्तु वाजिनः ।
यावदन्यत्र गच्छामि शुल्कार्थं पृथिवीपते ॥ 5-117-20(35797)
नारद उवाच। 5-117-21x(3735)
दिवोदासोऽथ धर्मात्मा समये गालवस्य ताम्।
कान्यां निर्यातयामास स्थितः सत्ये महीपतिः ॥ ॥ 5-117-21(35798)

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि सप्तदशाधिकशततमोऽध्यायः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.